कालिदासपूजितं विश्वसंस्कृतम्।
वाल्मीकि कूजितं विश्वसंस्कृतम् ।
श्रीहर्ष हर्षितं विश्वसंस्कृतम्।
भारविणा भाषितं विश्वसंस्कृतम् ॥ १ ॥
सर्वलोक- वन्दितं विश्वसंस्कृतम्
सर्वभोगमण्डितं विश्वसंस्कृतम्।
सर्वदेव-पूजितं विश्वसंस्कृतम् ।
व्यासदेव-सेवितं विश्वसंस्कृतम् ॥ २ ॥
मैक्समूलर-मण्डितं विश्वसंस्कृतम्
आङ्गलभाषा मण्डितं विश्वसंस्कृतम्।
ग्रीक्-लाटिन्- दर्शितं विश्वसंस्कृतम्
सर्वभाषा-सेवितं विश्वसंस्कृतम् ॥ ३॥
Bahut madad gar hain ye or book bhi padhane me hisab se bahut achvhi hai
ReplyDelete