Sankalpm sanskrit book bhag 3 नवमः पाठ: कृपणदम्पती class 8

 Sankalpm sanskrit book bhag 3 नवमः पाठ: कृपणदम्पती class 8



शिक्षणविन्दुः जीवने कस्य अपि स्वभावस्य 'अति' हासस्य कारणं भवति ।

कस्मिंश्चिद् ग्रामे एक: कृपणः स्वपल्या सह निवसति स्म। तस्य पत्नी तस्माद् अपि अधिका कृपणा आसीत्। सः कृपणः कस्मैचित् एकम् अपि रूप्यकं न प्रयच्छति स्म। तैलव्ययभयात् स्वगृहे दीपम् अपि न प्रज्यालयति स्म। प्रतिदिनं सायंकालात् पूर्व स्वपिति स्म।



हिंदी अनुवादकिसी गांव में एक कंजूस अपनी पत्नी के साथ रहता था। उसकी पत्नी उससे भी ज्यादा कंजूस थी। वह कंजूस किसी को भी एक रुपया तक नहीं देता था। तेल खर्च होने के भय से वह दोनों अपने घर में दीपक भी नहीं जलाते थे। प्रतिदिन शाम होने से पहले ही सो जाते थे।

एकस्मिन् दिने तस्य कृपणस्य मनसि एकः विचारः आगच्छत्। सः अचिन्तयत्-“यदि अहं नगरं गमिष्यामितर्हि विपुलं धनं प्राप्स्यामि।“ एतत् विचारं सः स्वपत्न्याः सम्मुखे प्राकटयत् । कृपणस्य पत्नी गृहकार्य समाप्य, बहिः गमनार्थं यत् किमपि आवश्यकं तत् सर्वं सज्जम् अकरोत्। सायंकाले गृहे तस्य भार्या एकं दीपं प्राज्वालयत् । कृपणः सायंकाले शुभमुहूर्ते यात्रा आरम्भम् अकरोत् । तस्य गमनात् परं परिश्रान्ता पत्नी दीपं निर्वाप्य खट्वायाम् अस्वपत् । 

हिंदी अनुवाददिन उस कंजूस के मन में एक विचार आया। उसने सोचा -यदि मैं नगर जाऊंगा तो बहुत धन मिलेगा। यह विचार उसने अपनी पत्नी के सामने प्रकट किया। कंजूस की पत्नी ने घर कार्य को समाप्त करके बाहर जाने के लिए जो कुछ भी आवश्यक था वह सभी तैयारियां कर ली । शाम के समय घर में उसकी पत्नी ने एक दीपक जलाया कंजूस ने शाम के समय में शुभ मुहूर्त में यात्रा आरंभ की। उसकी जाने से थकी हुई पत्नी दीपक बुझा कर खाट पर सो गई।

मार्गे दूरं गत्वा कृपणस्य मनसि एषः विचार: स्फुरितः – ‘यदि मम पत्ल्या दीपः न निर्वापित: स्यात् तर्हि वृथा तैलव्ययः भवेत् ।‘ एवं विचार्य सः रात्रौ एव गृहं प्रत्यागच्छत् । गृहं प्राप्य द्वारे ‘खट्-खट्’ शब्दम् अकरोत् । पत्नी यदा द्वारम् उद्घाटयत् तदा गृहे दीपं ज्वलन्तं दृष्ट्वा सः कृपणः सक्रोधम् –“किमर्थं दीपः न निर्वापितः ? अवदत् – ‘ एतया आशंकया एव अहम् अत्र आगच्छम्। निष्कारणम् अत्र तैलव्ययः भवति, धनव्ययः अपि ।“

हिन्दी अनुवाद- रास्ते में कुछ दूर जाने पर उस कंजूस के मन में एक विचार उत्पन्न हुआ- “यदि मेरी पत्नी ने दीपक नहीं बुझाया तो बेकार में ही तेल खर्च हो जाएगा। “ऐसा विचार करके रात में ही घर के लिए लौट आया। घर आकर दरवाजे पर खट- खट शब्द किया। पत्नी ने जैसे ही द्वार खोला वैसे ही घर में दीपक जलता देख वह कंजूस क्रोध सहित बोला - किसलिए दीपक नहीं बुझाया? इसी आशंका से ही मैं यहां आया था, बिना कारण के ही यहां तेल खर्च होता है और धन खर्च भी।

एतत् श्रुत्वा तस्य पत्नी अवदत् - नाथ! भवतः गमनात् परम् एव मया दीपः निर्वापितः । कपाटे 'खदखट्' शब्दं श्रुत्वा भवतः आगमनं ज्ञात्वा च इदानीम् एव अहं दीपं प्राज्वालयम् । परन्तु आर्यपुत्र! वृथा शंकया प्रत्यागत्य भवान् उचितं न अकरोत्। अनेन गमनेन आगमनेन च भवतः पादत्राणद्वयं निश्चिततया वृष्टं जातम्।” कृपणः एतत् श्रुत्वा अवदत् – “प्रिये ! अहं तादृशः मूर्खः नास्मि । यस्मात् स्थानात् अर्ह गच्छामि ततः प्रभृति पादत्राणद्वयं हस्तेन धृत्वा एव गच्छामि तथैव च आगच्छामि। तत्र प्राप्य पुनः एतत् पादयोः धारयिष्यामि।"

एतत् कथयित्वा सः कृपणः पुनः यात्रा आरम्भम् अकरोत् । पश्चात् तस्य पत्नी च दीपं निर्वाप्य शयनम् अकरोत् ।

हिंदी अनुवाद— यह सुनकर उसकी पत्नी बोली- नाथ आपके जाते ही मैंने दीपक बुझा दिया था। दरवाजे पर खटखट शब्द सुनकर और आपको आया हुआ जान कर ही मैंने यह दीपक जलाया। परंतु आर्यपुत्र बेकार शंका करके आने से आपने उचित नहीं किया। आने और जाने के कारण आपके दोनों जूते जरूर ही घिस गए होंगे। कंजूस यह सुनकर बोला- हे प्रिय मैं ऐसा मूर्ख नहीं हूं । जहां से मैं वापस आया हूं वहीं से ही अपने दोनों जूतों को हाथों में ले लिया था और तभी आया।अब उसी स्थान पर पहुंच कर ही जूता फिर से पहनूंगा। यह कह कर कंजूस फिर यात्रा आरंभ कर देता है और उसकी पत्नी दीपक बुझा कर सो जाती है ।

एकपदेन उत्तरत-

 1 – स्वपत्न्या

 2 – एक: विचारः

 3 – स्वपत्न्या:

 4- रात्रौ एव

 5 – पत्नी

 6 – दीपं

II. उत्तरपुस्तिकायाम् उत्तराणि पूर्णवाक्येन लिखत – (उत्तरपुस्तिका में पूर्ण वाक्य में उत्तर दीजिए।)

(Write complete answers in your note-book.)

1. कृपणस्य पत्नी तस्माद् अपि अधिका कृपणा आसीत्।

2. कृपणः अचिन्तयत् – “यदि अहं नगरं गमिष्यामि तर्हि विपुलं धनं प्राप्स्यामि। “

3. कृपणस्य मनसि विचारः स्फुरितः –“ यदि मम पत्न्या दीपः न निर्वापितः स्यात् तर्हि वृथा तैलव्यय: भवेत्। ‘’

 4. पत्नी यदा द्वारम् उद्घाटयत् तदा गृहे दीपं ज्वलन्तं दृष्ट्वा सः कृपणः सक्रोधम् अवदत्—” किमर्थं दीप: न निर्वापितः?

प्रश्न निर्माणं कुरुत—

 1 -क:

 2- कस्मिन् गृहे

 3- कस्य

 4- कस्मिन् काले

  5 – कयो:

रिक्त स्थानानि पूरयत—

1- बहिः

2- सह

3- तर्हि

4- मिथ्या

5- यदा, तदा

6- अपि

कोष्ठकात् उचित पदं चित्वा रिक्त स्थानं पूरयति –

 1 – सायंकालात्

 2 – स्वपत्न्या:

 3 – निर्वाप्य

  4 – कृपणस्य

  5—यात्रा

विशेषण पदानि विशेष्य पदानि

1 - अधिका कृपणा

2 – विपुलं धनं

3—परिश्रान्ता पत्नी

4 – एतया आशंकया

 5 – तादृशः मूर्खः

6 – यस्मात् स्थानात्

7- एकं दीपं

8- सर्वम् सज्जम्


- अगर आपको संकल्पम  भाग 3 के किसी भी पाठ का वीडियो चाहिए तो नीचे दिए गए लिंक पर क्लिक करके प्राप्त कर सकते हैं, धन्यवाद


https://youtube.com/channel/UCnQciSZi8Tjz4iD6cpQFKXQ






No comments:

Post a Comment